|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.125. अध्यायः 125
Mahabharata - Adi Parva - Chapter Topics
ब्रह्मलोकं जिगमिषोः पाण्डोः तव पुत्रा भविष्यन्तीत्युक्त्वा ऋषिभिः प्रतिनिवर्तनम्॥ 1 ॥
Mahabharata - Adi Parva - Chapter Text
वैशम्पायन उवाच। 1-125-0x(743)(5508)
तत्रापि तपसि श्रेष्ठे वर्तमानः स वीर्यवान्।
सिद्धचारणसङ्घानां बभूव प्रियदर्शनः॥ 1-125-1(5509)
सुश्रूषुरनहंवादी संयतात्मा जितेन्द्रियः।
स्वर्गं गन्तुं पराक्रान्तः स्वेन वीर्येण भारत॥ 1-125-2(5510)
केषांचिदभवद्भ्राता केषांचिदभवत्सखा।
ऋषयस्त्वपरे चैनं पुत्रवत्पर्यपालयन्॥ 1-125-3(5511)
स तु कालेन महता प्राप्य निष्कल्मषं तपः।
ब्रह्मर्षिसदृशः पाण्डुर्बभूव भरतर्षभ॥ 1-125-4(5512)
अमावास्यां तु सहिता ऋषयः संशितव्रताः।
ब्रह्माणं द्रष्टुकामास्ते संप्रतस्थुर्महर्षयः॥ 1-125-5(5513)
संप्रयातानृषीन्दृष्ट्वा पाण्डुर्वचनमब्रवीत्।
भवन्तः क्व गमिष्यन्ति ब्रूत मे वदतां वराः॥ 1-125-6(5514)
ऋषय ऊचुः। 1-125-7x(744)
समावायो महानद्य ब्रह्मलोके महात्मनाम्।
देवानां च ऋषीणां च पितॄणां च महात्मनाम्।
वयं तत्र गमिष्यामो द्रष्टुकामाः स्वयंभुवम्॥ 1-125-7(5515)
वैशम्पायन उवाच। 1-125-8x(745)
पाण्डुरुत्थाय सहसा गन्तुकामो महर्षिभिः।
स्वर्गपारं तितीर्षुः स शतशृङ्गादुदङ्मुखः॥ 1-125-8(5516)
प्रतस्थे सह पत्नीभ्यामब्रुवंस्तं च तापसाः।
उपर्युपरि गच्छन्तः शैलराजमुदङ्मुखाः॥ 1-125-9(5517)
दृष्टवन्तो गिरौ रम्ये दुर्गान्देशान्बहून्वयम्।
विमानशतसंबाधां गीतस्वरनिनादिताम्॥ 1-125-10(5518)
आक्रीडभूमिं देवानां गन्धर्वाप्सरसां तथा।
उद्यानानि कुबेरस्य समानि विषमाणि च॥ 1-125-11(5519)
महानदीनितम्बांश्च गहनान्गिरिगह्वरान्।
सन्ति नित्यहिमा देशा निर्वृक्षमृगपक्षिणः॥ 1-125-12(5520)
सन्ति क्वचिन्महादर्यो दुर्गाः काश्चिद्दुरासदाः।
नातिक्रामेत पक्षी यान्कुत एवेतरे मृगाः॥ 1-125-13(5521)
वायुरेको हि यात्यत्र सिद्धाश्च परमर्षयः।
गच्छन्त्यौ शैलराजेऽस्मिन्राजपुत्र्यौ कथं न्विमे॥ 1-125-14(5522)
न सीदेतामदुःखार्हे मा गमो भरतर्षभ। 1-125-15(5523)
पाण्डुरुवाच।
अप्रजस्य महाभागा न द्वारं परिचक्षते॥ 1-125-15x(746)
स्वर्गे तेनाभितप्तोऽहमप्रजस्तु ब्रवीमि वः।
सोऽहमुग्रेण तपसा सभार्यस्त्यक्तजीवितः॥ 1-125-16(5524)
अनपत्योऽपि विन्देयं स्वर्गमुग्रेण कर्मणा। 1-125-17(5525)
ऋषय ऊचुः।
अस्ति वै तव धर्मात्मन्विद्म देवोपम शुभम्॥ 1-125-17x(747)
अपत्यमनघं राजन्वयं दिव्येन चक्षुषा।
दैवोद्दिष्टं नरव्याघ्र कर्मणेहोपपादय॥ 1-125-18(5526)
अक्लिष्टं फलमव्यग्रो विन्दते बुद्धिमान्नरः।
तस्मिन्दृष्टे फले राजन्प्रयत्नं कर्तुमर्हसि॥ 1-125-19(5527)
अपत्यं गुणसंपन्नं लब्धा प्रीतिकरं ह्यसि। 1-125-20(5528)
वैशम्पायन उवाच।
तच्छ्रुत्वा तापसवचः पाण्डुस्चिन्तापरोऽभवत्॥ 1-125-20x(748)
आत्मनो मृगशापेन जानन्नुपहतां क्रियाम्॥ ॥ 1-125-21(5529)
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि संभवपर्वणि पञ्चविंशत्यधिकशततमोऽध्यायः॥ 125 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-125-5 अमावास्यां प्राप्य॥ 1-125-10 विमानशतेन संबाधं संकटं यस्यां सा॥ 1-125-19 अव्यग्रो विन्दतेऽतो व्यग्रो माभूरित्यर्थः॥ 1-125-20 लभते इति लब्धा तादृशोऽसि लप्स्यसीत्यर्थः॥ पञ्चविंशत्यधिकशततमोऽध्यायः॥ 125 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|